top of page

अभिज्ञानशाकुन्तले वैदिकतत्त्वानां समीक्षात्मकमध्ययनम्

डॉ. ज्योति

सह – प्राध्यापिका, संस्कृत विभाग, जानकी देवी मेमोरियल महाविद्यालय

Abhinavdhara: International Journal of Innovation in Indic Studies

Volume-4

Issue: 1

Publication year-2026

सारांश:
विश्वस्य वृहत्तम-वाङ्मयेषु संस्कृतभाषायाः वाङ्मयं मूर्धन्यस्थानम् बिभर्ति। संस्कृतसाहित्यं न केवलं भाषिकदृष्ट्या समृद्धमस्ति, अपितु भारतीयसभ्यतायाः, संस्कृतेः, दर्शनस्य, आध्यात्मिकचिन्तनस्य तथा जीवनमूल्यानां महत्त्वपूर्णं संवाहकमपि अस्ति। अस्मिन् वाङ्मये वेदाः सर्वप्राचीनाः ज्ञानविज्ञानस्य आधारभूताश्च ग्रन्थाः मन्यन्ते। वेदेषु प्रतिपादितानि जीवनदर्शनम्, प्रकृतिचिन्तनम्, नैतिकमूल्यानि, सामाजिकव्यवस्था, आध्यात्मिकचेतना च भारतीयसंस्कृतेः मूलाधाररूपेण प्रतिष्ठितानि सन्ति। एतेषां वैदिकतत्त्वानां प्रभावः परवर्तिनि संस्कृतसाहित्येऽपि विविधरूपेण दृश्यते।वाङ्मयेऽस्मिन् यद्यपि वेदाः एव आदिग्रन्थाः मन्यन्ते तथापि लौकिक साहित्यस्य कवीनां गणना-प्रसङ्गे महाकविः कालिदासः प्रथमं स्थानमलङ्करोति। महाकवेः काव्यैः भारतीयसंस्कृतेः “सत्यं शिवं सुन्दरम्” सदृशी मंगल-भावनायाः अभिव्यक्तिः युगयुगान्तरेष्वपि करिष्यते। अद्यप्रभृत्यपि न कोऽपि तस्य समीपवर्ती स्थाने उपवेष्टुं समर्थो। प्रस्तुतशोधपत्रे अभिज्ञानशाकुन्तले वर्णिता वैदिक संस्कृतेः, जीवनमूल्यानामुपदेशानाञ्च व्यावहारिकी एवं वैज्ञानिकी व्याख्या सहृदयानां समक्षमुपस्थापयितुं प्रयासः क्रियते। अध्ययनस्य प्रतिपाद्यमस्ति यत् कालिदासस्य काव्याः मात्रं प्रेमविरहं पुनर्मेलनञ्च न दर्शयन्त्यपितु भारतीय-वैदिकजीवनदर्शनस्य चापि साहित्यकीमभिव्यक्तिमुस्थापयन्ति।

Keywords- अभिज्ञानशाकुन्तलम्, महाकविः कालिदासः, वैदिकतत्त्वानि, वैदिकसंस्कृतिः, भारतीयजीवनदर्शनम्, आश्रमव्यवस्था, गुरुकुलपरम्परा, प्रकृतिचेतना, नैतिकमूल्यानि, वैदिकजीवनमूल्यानि, भारतीयसंस्कृतिः।

Page Number-21-33

​

bottom of page