top of page
PEACOCK AND KRISHNA.jpg

श्रीमद्भगवद्गीतायां प्रतिपादितं वैज्ञानिकतत्त्वम्

डॉ.आसराफ आलम खाँन

सहायकाचार्यः (योगः), केन्द्रीयसंस्कृतविश्वविद्यालयः

एकलव्यपरिसरः, अगरतला

Publication Type  -   Journal Article

Publication Year    -   2026

Journal Name   -   Abhinavdhara Journal

Volume/ Issue  -    Special Issue-Vol -2

Pagination -            37-49

Article Type   -       Research Paper

शोध-सार

श्रीमद्भगवद्गीतानामकग्रन्थः भारतीयदर्शनस्य दीपस्तम्भरूपेण वर्तते न केवलं भारतदेशे, अपि तु समग्रे जगति अपि परमसम्माननीयः अद्वितीयः च अस्ति। एषः ग्रन्थः सनातनधर्मस्य, भारतीयदर्शनोत्कर्षस्य च मूर्तस्वरूपमिति विज्ञायते। अस्य ग्रन्थस्य प्रत्येकः श्लोकः न केवलम् आध्यात्मिकविवेकस्य प्रकाशकः अस्ति, अपि तु मानवजीवनस्य सर्वाङ्गीणविकासाय वैज्ञानिकदृष्ट्या अपि अत्यन्तगम्भीरं चिन्तनं प्रतिपादयति। अत्र आत्मस्वरूपस्य, कर्तव्यबोधस्य, धर्मस्य, कर्मयोगस्य, ज्ञानयोगस्य, भक्तियोगस्य च निरूपणम् उत्कृष्टं दृश्यते।

भगवता श्रीकृष्णेन अर्जुनाय युद्धभूमौ कृतः उपदेशः केवलं युद्धे विजयं साधयितुं न अभूत्, अपि तु जीवनयात्रायाः प्रत्येकसङ्कटे मार्गदर्शकस्वरूपेण तस्य उपदेशस्य महत्वम् अद्ययावत् अनुभव्यमानम् अस्ति। गीता न केवलं मोक्षमार्गस्य प्रदर्शिका अस्ति, अपि तु तत्र विज्ञानं, मनःशास्त्रं, समाजशास्त्रं, राजनीतिशास्त्रं च यथासम्भवम् अन्तर्निहितानि सन्ति। भगवता प्रदत्ताः उपदेशाः ये सन्ति, तेषां चिन्तनशक्तिं विस्तारयितुं, समस्यासु समाधानम् अन्वेष्टुं च मानवजातिं प्रेरयन्ति। विज्ञानदृष्ट्या अपि गीता अस्मान् बोधयति यत् प्रत्येकक्रियायाः, प्रत्येकस्य भावस्य च कारणं तत्त्वतः अन्वेषणीयं भवति।

अतः श्रीमद्भगवद्गीता न केवलं एकः धार्मिकः ग्रन्थः अस्ति, अपि तु विज्ञानयुक्तं, तत्त्वयुक्तं, साधनापरकं च जीवनदर्शनं प्रदीयते। अस्य ग्रन्थस्य अध्ययनं मनुष्ये आत्मान्वेषणं, आत्मविकासं च प्रेरयति, तथा च बहिर्मुखदृष्ट्या अपि संसारधर्मस्य रहस्यावबोधनं साधयति। अस्मिन् ग्रन्थस्थितं विज्ञानमयं चिन्तनं, तर्कशुद्धं विवेचनं च अद्यापि आधुनिकवैज्ञानिकदृष्ट्या अपि प्रशंसायोग्यं, गवेषणीयं च अस्ति।

मुख्य शब्द- श्रीमद्भगवद्गीता, कर्मयोग, ज्ञानयोग, भक्तियोग , जीवनदर्शनं

Chief Editor Contact

Dr Supriya Sanju

Adjunct Professor, Department of Indian Knowledge & Languages

Gurugram University Gurugram

Phone: 9818244235 Email id: supriyasanju@gmail.

bottom of page